ज्योति शुक्ला, रूपल शुक्ला, कविता वर्मा
कार्यक्रमसमन्वयिकाः, लर्नगीता
“सर्वभूतहितेरताः” – अयं श्लोकः अस्माकं सेवायाः सूत्ररूपेण प्रतिष्ठितः। यः साधकः केवलं स्वहितं पश्यति, सः सीमितं लाभमेव प्राप्नोति; यः पुनः सर्वेषां हितं पश्यति, तस्य साधना विश्वव्यापिनी भवति। उपनिषत् अपि स्पष्टं ब्रूते –
“यमेवैष वृणुते तेन लभ्यः” (कठोपनिषद् १.२.२३ / मुण्डकोपनिषद् ३.२.३) अर्थात् — सः यं चिनोति स एव इदं कार्यं कर्तुं शक्नोति।
गीताज्ञानं न केवलं पुस्तकपठनस्य परिणामः, न च बौद्धिकचर्चायाः विषयः; अपि तु तस्यैव सौभाग्यम्, यं ईश्वरः स्वयमेव निमित्तीकुरुते। अस्माकं भाग्यम् एतदेव, यत् प्रभुः अस्मान् अस्य कार्यस्य निमित्तीकृतवान्। गीता न केवलं युद्धभूमेः उपदेशरूपा, अपि तु सम्पूर्णजीवनस्य दार्शनिकनकाशरूपिणी।
धर्मे स्थैर्यम्, कर्तव्ये निष्ठा, चित्ते प्रसन्नता, दुःखसुखयोः समत्वम्, ईश्वरस्मरणे अनवरतता – एतानि सूत्राणि गीता प्रददाति। महापुरुषमुखैः अपि गीता महिम्ना वर्णिता। भक्तिरसपारगः सन्तश्रेष्ठः ज्ञानेश्वरमहाराजः गीतायाः भावार्थदीपिकां “भावार्थदीपिका” (ज्ञानेश्वरी) इति नाम्ना रचयामास। ते अवदन् –
“गीता तु भगवतः प्रत्यक्षः श्वासः इति जीवने सर्वदुःखहरिणी।”
स्वामी विवेकानन्दः अपि अवदत् –
“Geeta is the universal mother. Her doors are open to everyone.”
तेन गीता न केवलं हिन्दूनां, अपि तु सम्पूर्णमानवानां सार्वभौमः उपदेशः इति प्रतिपादितम्।
महात्मागान्धीमहाभागः अपि स्वीयम् आत्मबलं गीतायाः श्लोकैः लब्धवान्।
तेन उक्तम् –
“When doubts haunt me and disappointment stares me in the face,
I turn to the Bhagavad Geeta and find a verse that comforts me.”
लोकमान्यतिलकः अपि अवदत् –
“Geeta is my mother. When I am in distress, I take refuge in her bosom.”
तस्य “गीतारहस्ये” कर्मयोगस्य महिमा विशदीकृता। आधुनिकवैज्ञानिकानाम् अभिप्रायाः अनेकाः आधुनिकाः वैज्ञानिकाः अपि गीताशिक्षायाः गाम्भीर्यं प्रशंसितवन्तः।
“अल्बर्ट आइंस्टीन” नामकः दार्शनिकः गीतायाः विचारैः प्रेरणां लब्धवान्।
डॉ. ए.पी.जे. अब्दुलकलाम अवदत् –
“Geeta gives the best management principles, stress control and peace of mind.”
“ओपेनहाइमर” नामकः वैज्ञानिकः प्रथम-अणुबॉम्ब-परीक्षणे गीता-श्लोकं स्मरन् उक्तवान् –
“कालोऽस्मि लोकक्षयकृत् प्रवृद्धः” (गीता ११.३२)।
एवं गीता न केवलं धार्मिकग्रन्थः, अपि तु विज्ञान, जीवन, नेतृत्वे च समानरूपेण आदरणीया अस्ति।
भारतीयसंस्कृतेः वैशिष्ट्यम्
भारतीयसंस्कृतेः सारभूतं सिद्धान्तम् – “वसुधैव कुटुम्बकम्” (सम्पूर्णं विश्वं एकं कुटुम्बम्)।
लर्नगीता-अभियानं एतस्मिन् एव सिद्धान्ते नूतनमायामं दत्तवन्।
कोविडकालीनआपत्तिं अवसरं कृत्वा वयं जगति प्रदर्शितवन्तः यत् भौगोलिकदूरीः किमपि न भवन्ति।
लर्नगीता-अभियानम् एतस्य प्रत्यक्षं प्रमाणं जातम् – यत्र १८० राष्ट्रेषु १४ लक्षाधिकाः जनाः भेदं विना ज्ञानं लभन्ते। प्रातःचतुर्वादनात् आरभ्य रात्रिद्विवादनपर्यन्तं त्रयोदश (13 )भाषासु प्रवर्तमानाः ३००० कक्ष्याः “वसुधैव कुटुम्बकम्” इत्यस्य भावनायाः साक्षात्काररूपेण दृश्यन्ते। विविधराष्ट्रेषु, विविधसंस्कृतिषु च स्थिताः जनाः, एकस्मिन् एव मञ्चे आगत्य गीता-अध्ययनं कुर्वन्ति। एवं गीतायाः कृपया एकः वैश्विकः परिवारः निर्मितः, यत्र सर्वे सदस्याः परस्परं स्नेहं सम्मानं च वहन्ति। अयं न केवलं ज्ञानप्रसारः, अपि तु सम्पूर्णमानवजातिं एकत्र कुर्वन् विराटः प्रयासः अस्ति। लर्नगीता इत्यस्य आदर्शः अस्य प्रत्यक्षसिद्धिः।
अद्य अस्माकं संकल्पः —
“प्रतिगृहं गीता, प्रतिकरं गीता।”
यावत् गीतारसः प्रतिगृहं, प्रतिहृदयं, प्रतिजीवनं च न प्रवहति, तावत् अस्माकं प्रयत्नाः निरन्तरं प्रवर्तिष्यन्ते। गीतासंदेशः न केवलं धर्मोपदेशः, अपि तु विश्वस्य मङ्गलाय, सर्वभूतहिताय च आह्वानरूपः। यदि वयं सर्वे मिलित्वा एतद् दिव्यज्ञानं जीवनप्रवाहे आचरिष्यामः, तर्हि गीतामृतं सम्पूर्णमानवजातीम् आलोकयिष्यति। अतः अस्माकं प्रार्थना स्वाभाविका –
“आ नो भद्राः क्रतवो यन्तु विश्वतः” (ऋग्वेद १.८९.१)
यतः सर्वतः आगताः उत्तमानि चिन्तनानि अस्माकम् अन्तःकरणानि आलोकयन्तु। सर्वे वयं तानि आत्मसात्कृत्वा गीतामयविश्वस्य निर्माणाय संकल्पबद्धाः भवाम।
“इति सम्”
जय श्रीकृष्ण!